text
stringlengths
1
2.69k
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
ईदृशाद् वाचकाद् राजश्रुत्वा भारत भारतम्। नियमस्थः शुचिः श्रोता शृण्वन् स फलमश्नुते॥
पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयन्। अग्निष्टोमस्य यज्ञस्य फलं वै लभते नरः॥
अप्सरोगणसंकीर्णं विमानं लभते महत्। प्रहृष्टः स तु देवैश्च दिवं याति समाहितः॥
द्वितीयं पारणं प्राप्य सोऽतिरात्रफलं लभेत्। सर्वरत्नमयं दिव्यं विमानमधिरोहति॥
दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः। दिव्याङ्गदधरो नित्यं देवलोके महीयते॥
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत्। वसत्यमरसंकाशो वर्षाण्ययुतशो दिवि॥
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम्। उदितादित्यसंकाशं ज्वलन्तमनलोपमम्॥ विमानं विबुधैः सार्धमारुह्य दिवि गच्छति। वर्षायुतानि भवने शक्रस्य दिवि मोदते॥
षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम्। कैलासशिखराकारं वैदूर्यमणिवेदिकम्॥ परिक्षिप्तं च बहुधा पणिविदुमभूषितम्। विमानं समधिष्ठाय कामगं साप्सरोगणम्॥ सर्वांल्लोकान् विचरते द्वितीय इव भास्करः। अष्टमे राजसूयस्य पारणे लभते फलम्॥
चन्द्रोदयनिभं रम्यं विमानमधिरोहति। चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः॥
सेव्यमानो वरस्त्रीणां चन्द्रात् कान्ततरैर्मुखैः। मेखलानां निनादेन नूपुराणां च निःस्वनैः॥
अङ्के परमनारीणां सुखसुप्तो विबुध्यते। नवमे क्रतुराजस्य वाजिमेधस्य भारत॥
काञ्चनस्तम्भनिहवैदूर्यकृतवेदिकम्। जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम्॥ सेवितं चाप्सरःसङ्गैर्गन्धर्वैर्दिविचारिभिः। विमानं समधिष्ठाय श्रिया परमया ज्वलन्॥
दिव्यमाल्याम्बरधरो दिव्यचन्दनरूषितः। मोदते दैवतैः सार्धं दिवि देव इवापरः॥
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च। किंकिणीजालनिर्घोषं पताकाध्वजशोभितम्॥ रत्नवेदिकसम्बाधं वैदूर्यमणितोरणम्। हेमजालपरिक्षिप्तं प्रवालबलभीमुखम्॥ गन्धर्वर्गीतकुशलैरप्सरोभिश्च शोभितम्। विमानं सुकृतावासं सुखेनैवोपपद्यते॥
मुकुटेनाग्निवर्णेन जाम्बूनदविभूषिणा। दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः॥ दिव्याल्लोकान् विचरति दिव्यैर्भोगैः समन्वितः। विबुधानां प्रसादेन श्रिया परमया युतः॥
अथ वर्षगणानेवं स्वर्गलोके महीयते। ततो गन्धर्वसहितः सहस्राण्येकविंशतिम्॥ पुरन्दरपुरे रम्ये शक्रेण सह मोदते। दिव्ययानविमानेषु लोकेषु विविधेषु च॥ दिव्यनारीगणाकीर्णो निवसत्यमरो यथा। ततः सूर्यस्य भवने चन्द्रस्य भवने तथा॥ शिवस्य भवने राजन् विष्णोर्याति सलोकताम्। एवमेतन्महाराज नात्र कार्या विचारणा॥
श्रद्दधानेन वै भव्यमेवमाह गुरुर्मम। वाचकस्य तु दातव्यं मनसा यद् यदिच्छति॥
हस्त्यश्वस्थयानानि वाहनानि विशेषतः। कटके कुण्डले चैव ब्रह्मसूत्रं तथा परम्॥ वस्त्रं चैव विचित्रं च गन्धं चैव विशेषतः। देववत् पूजयेत् तं तु विष्णुलोकमवाप्नुयात्॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते। वाच्यमाने तु विप्रेभ्यो राजन् पर्वणि पर्वणि॥ जाति देशं च सत्यं च माहात्म्यं भरतर्षभ। धर्मं वृत्तिं च विज्ञाय क्षत्रियाणां नराधिप।॥
स्वस्ति वाच्य द्विजानादौ ततः कार्ये प्रवर्तिते। समाप्ते पर्वणि तत: स्वशक्त्या पूजयेद् द्विजान्।५५।
आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम्। विधिवद् भोजयेद् राजन् मधु पायसमुत्तमम्॥
ततो मूलफलप्रायं पायसं मधुसर्पिघा। आस्तीके भोजयेद् राजन् दद्याच्चैव गुडौदनम्॥
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम्। सभापर्वणि राजेन्द्र हविष्यं भोजयेद् द्विजान्॥
आरण्यके मूलफलैस्तर्पयेत्तु द्विजोत्तमान्। अरणीपर्व चासाद्य जलकुम्भान् प्रदापयेत्॥
तर्पणानि च मुख्यानि वन्यमूलफलानि च। सर्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत्॥
विराटपर्वणि तथा वासांसि विविधानि च। उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम्॥ भोजनं भोजयेद् विप्रान् गन्धमाल्यैरलंकृतान्। भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम्॥ ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम्। द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम्॥ शराश्च देया राजेन्द्र चापान्यसिवरास्तथा। कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम्॥ विप्रेभ्यः संस्कृतं सम्यग् दद्यात् संयतमानसः। शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः॥ अपूरैस्तर्पणैश्चैव सर्वमन्नं प्रदापयेत्। गदापर्वण्यपि तथा मुद्गमित्रं प्रदापयेत्॥
स्त्रीपर्वणि तथा रत्तैस्तर्पयेत्तु द्विजोत्तमान्। घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः॥ ततः सर्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम्। शान्तिपर्वण्यपि तथा हविष्यं भोजयेद् द्विजान्॥
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम्। तथाऽऽश्रमनिवासे तु हविष्यं भोजयेद् द्विजान्॥
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम्। महाप्रास्थानिके तद्वत् सर्वकामगुणान्वितम्॥
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद् द्विजान्। हरिवंशसमाप्तौ तु सहस्रं भोजयेद् द्विजान्॥
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत्। तदर्धेनापि दातव्या दरिद्रेणापि पार्थिव॥
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः। सुवर्णेन च संयुक्तं वाचकाय निवेदयेत्॥
हरिवंशे पर्वणि च पायसं तत्र भोजयेत्। पारणे पारणे राजन् यथावद् भरतर्षभ॥
समाप्य सर्वाः प्रयत: संहिताः शास्त्रकोविदः। शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः॥ शुक्लाम्बरधरः स्रग्वी शुचिर्भूत्वा स्वलंकृतः।
अर्चयेत यथान्यायं गन्धमाल्यैः पृथक्-पृथक्॥ संहितापुस्तकान् राजन् प्रयतः सुसमाहितः। भक्ष्यैर्माल्यैश्च पेयैश्च कामैश्च विविधैः शुभैः॥
हिरण्यं च सुवर्णं च दक्षिणामथ दापयेत्। सर्वत्र त्रिपलं स्वर्ण दातव्यं प्रयतात्मना॥ तदर्धं पादशेष वा वित्तशाठ्यविवर्जितम्। यद् यदेवात्मनोऽभीष्टं तत् तद् देयं द्विजातये॥ सर्वथा तोषयेद् भक्त्या वाचकं गुरुमात्मनः । देवता: कीर्तयेत् सर्वा नरनारायणौ तथा॥
ततो गन्धैश्च माल्यैश्च स्वलंकृत्य द्विजोत्तमान्। तर्पयेद् विविधैः कामैर्दानैश्चोच्चावचैस्तथा॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः। प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि॥
वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः। भविष्यं श्रावयेद् विद्वान् भारतं भरतर्षभ॥
भुक्तवत्सु द्विजेन्द्रेषु यथावत् सम्प्रदापयेत्। वाचकं भरतश्रेष्ठ भोजयित्वा स्वलंकृतम्॥
वाचके परितुष्टे तु शुभा प्रतिरनुत्तमा। ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्वदेवताः॥
ततो हि वरणं कार्यं द्विजानां भरतर्षभ। सर्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः॥
इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर। श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि॥
भारतश्रवणे राजन् पारणे च नृपोत्तम। सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता॥
भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत्। भारतं भवने यस्य तस्य हस्तगतो जयः॥
भारतं परमं पुण्यं भारते विविधाः कथाः। भारतं सेव्यते देवैर्भारतं परमं पदम्॥
भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ। भारतात् प्राप्यते मोक्षस्तत्त्वमेतद् ब्रवीमि तत्॥
महाभारतमाख्यानं क्षितिं गां च सरस्वतीम्। ब्राह्मणान् केशवं चैव कीर्तयेन् नावसीदति॥
वेदे रामायणे पुण्ये भारते भरतर्षभ। आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते॥
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः। तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता॥
एतत् पवित्रं परममेतद् धर्मनिदर्शनम्। एतत् सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता॥
कायिकं वाचिकं चैव मनसा समुपार्जितम्। तत् सर्वं नाशमायाति तमः सूर्योदये यथा॥
अष्टादशपुराणानां श्रवणाद् यत् फलं भवेत्। तत् फलं समवाप्नोति वैष्णवो नात्र संशयः॥
स्त्रियश्च पुरुषाश्चैव वैष्णवं पदमाप्नुयुः। स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः॥
दक्षिणा चात्र देया वै निष्कपञ्चसुवर्णकम्। वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता॥
स्वर्णशृङ्गी च कपिला सवत्सां वस्त्रसंवृताम्। वाचकाय च दद्याद्धि आत्मनः श्रेय इच्छता॥
अलङ्कारं प्रदद्याच्च पाण्योर्वे भरतर्षभ। कर्णस्याभरणं दद्याद् धनं चैव विशेषतः॥
भूमिदानं समादद्याद् वाचकाय नराधिप। भूमिदानसमं दानं न भूतं न भविष्यति॥
शृणोति श्रावयेद् वापि सततं चैव यो नरः। सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात्॥
पितृनुद्धरते सर्वानेकादशसमुद्भवान्। आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ॥ दशांशश्चैव होमोऽपि कर्तव्योऽत्र नराधिप। इदं मया तवाग्रे च प्रोक्तं सर्वे नरर्षभ॥